मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२१, ऋक् ८

संहिता

यश्चि॒दापो॑ महि॒ना प॒र्यप॑श्य॒द्दक्षं॒ दधा॑ना ज॒नय॑न्तीर्य॒ज्ञम् ।
यो दे॒वेष्वधि॑ दे॒व एक॒ आसी॒त्कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥

पदपाठः

यः । चि॒त् । आपः॑ । म॒हि॒ना । प॒रि॒ऽअप॑श्यत् । दक्ष॑म् । दधा॑नाः । ज॒नय॑न्तीः । य॒ज्ञम् ।
यः । दे॒वेषु॑ । अधि॑ । दे॒वः । एकः॑ । आसी॑त् । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥

सायणभाष्यम्

यज्ञं यज्ञोपलक्षितं विकारजातं जनयन्तीरुत्पादयन्तीः तदर्थं दक्षं प्रपञ्चात्मना वर्धिष्णुं प्रजापतिमात्मनि दधाना धारयित्रीः। दधातेर्हेतौ शानच्। अभ्यस्तानामादिरित्याद्युदात्तत्वम्। ईदृशीरापः व्यत्ययेन प्रथमा। आपः प्रलयकालीना महिना महिम्ना। छान्दसो मलोपः। स्वमाहात्म्येन यश्च प्रजापतिः पर्यपश्यत् परितो दृष्टवान् यश्च देवेष्वधि देवेषु मध्ये देवस्तेषामपीश्वरः सन्नेकोऽद्वितीय आसीत् भवति। अस्तेश्छान्दसो लङ्। अस्तिसिचोऽपैक्ते। पा. ७-३-९६। इतीडागमः। तस्मै कस्मा इत्यादि गतम्॥८॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः