प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ।
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥
प्रजा॑ऽपते । न । त्वत् । ए॒तानि॑ । अ॒न्यः । विश्वा॑ । जा॒तानि॑ । परि॑ । ता । ब॒भू॒व॒ ।
यत्ऽका॑माः । ते॒ । जु॒हु॒मः । तत् । नः॒ । अ॒स्तु॒ । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥
इळादधाख्य इष्ट्ययने प्राजापत्यस्य हविषः प्रजापत इत्येषानुवाक्या। सूत्रितं च। प्रजापत्य इळादधः प्रजापते न त्वदेतान्यन्यः। आ. २-१४। इति। केशनखकीटादिभिर्दुष्टानि हवींष्यनयैवाप्सु प्रक्षिपेत्। सूत्रितं च। आपोऽभ्यवहरेयुः प्रजापते न त्वदेतान्यन्यः। आ. ३-१०। इति। चौलादिकर्मस्वप्येषा होमार्था। सूत्रितं च। तेषां पुरस्ताच्चतस्र आज्याहुतीर्जुहुयादग्न आयूंषि पवस इति तिसृभिः प्रजापते न त्वदेतान्यन्य इति च। आ. गृ. १-४-४-। इति॥
हे प्रजापते त्वत् त्वत्तोऽन्यः कश्चिदेतानीदानीं वर्तमानानि विश्वा विश्वानि सर्वाणि। शेश्छन्दसि बहुलमिति शेर्लोपः। जातानि प्रथमविकारभाञ्जि ता तानि सर्वाणि भूतजातानि न परि बभूव। न परिगृह्णाति। न व्युआप्नोति। त्वमेवैतानि परिगृह्य स्रष्टुं शक्नोषीति भाव। परिपूर्वो भवतिः परिग्रहार्थः। वयं च यत्कामायत्फलं कामयमानास्ते तुभ्यं जुहुमः हवींषि प्रयच्छामः तत्फलं नोऽस्माकमस्तु। भवतु। तथा वयं च रयीणां धनानां पतय ईश्वराः स्याम। भवेम। नामन्यतरस्यामिति नाम उदात्तत्वम्॥१०॥