मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२२, ऋक् १

संहिता

वसुं॒ न चि॒त्रम॑हसं गृणीषे वा॒मं शेव॒मति॑थिमद्विषे॒ण्यम् ।
स रा॑सते शु॒रुधो॑ वि॒श्वधा॑यसो॒ऽग्निर्होता॑ गृ॒हप॑तिः सु॒वीर्य॑म् ॥

पदपाठः

वसु॑म् । न । चि॒त्रऽम॑हसम् । गृ॒णी॒षे॒ । वा॒मम् । शेव॑म् । अति॑थिम् । अ॒द्वि॒षे॒ण्यम् ।
सः । रा॒स॒ते॒ । शु॒रुधः॑ । वि॒श्वऽधा॑यसः । अ॒ग्निः । होता॑ । गृ॒हऽप॑तिः । सु॒ऽवीर्य॑म् ॥

सायणभाष्यम्

वसुं नेत्यष्टर्चं दशमं सूक्तं वसिष्ठपुत्रस्य चितमाहस आर्षमाग्नेयं आद्यापञ्चमी त्रिष्टुभौ शिष्टा जगत्यः। तथा चानुक्रान्तम्। वसुं नाष्टौ चित्रमहावसिष्ठ आग्नेयं जागतमाद्याम् पञ्चमीं चर्त इति। प्रातरनुवाकाश्विनशस्त्रयोराग्नेये क्रतौ जागते छन्दसीदं सूक्तम् । सूत्रितं च। वसुं न चित्रमहसमिति जागतम्। आ. ४-१३। इति॥

वसुं न वासकं सूर्यमिव चित्रमहसं चायनीयतेजस्कमग्निं गृणीषे। गृणे। स्त्ॐइ। गॄ शब्दे क्रैयादिकः। पुरुषव्यत्ययः। प्वादित्वाद्ध्रस्वः। यद्वा। चित्रमहसमिति प्रथमार्थे द्वितीया। नेति सम्प्रत्यर्थे। सम्प्रति वासकमग्निमहं चित्रमहाः स्त्ॐइ। कीदृशम् । वामं वननीयं शेवं सुखकरमतिथिमतिथिवत्पूज्यं यद्वा हविर्वहनाय सततगामिनं अद्विषेण्यं द्वेष्य रहितम्। द्विषेः कृत्यार्थे तवैकेनिति केन्यप्रत्ययः। नञा बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदान्तोदात्तत्वम्। सोऽग्निः सुरुधः शोकस्य रोधयित्रीर्निवारयित्रीर्विश्वधायसः क्षीरप्रदानादिना विश्वं सर्वं जगद्धारयन्तीर्गाः सुवीर्यं शोभनवीर्यं च रासते। यजमानेभ्यो ददाति। रा दाने। अस्माल्लेट्। लॆट्यडागमः। सिब्बहुलमिति सिप्। व्यत्ययेनात्मनेपदम्। विश्वशब्दोपधाद्दधातेर्वहिहाधाञ्भ्य इत्यसुन्। णिदित्यनुवृत्तेरातो युक् चिणिति युक् मरुद्वृधादित्वात्पूर्वपदान्तोदात्तत्वम्। कीदृशोऽग्निः। होता देवानामाह्वाता होमनिष्पादको वा गृहपतिर्यजमानगृहाणामीश्वरः। गेहे कः। पा. ३-१-१४४। इति ग्रहेः कप्रत्ययः। ग्रहिज्येत्यादिना सम्प्रसारनम्। पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरत्वम्। शोभनं वीर्यं यस्येति बहुव्रीहौ वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वम्॥१॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः