मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२२, ऋक् २

संहिता

जु॒षा॒णो अ॑ग्ने॒ प्रति॑ हर्य मे॒ वचो॒ विश्वा॑नि वि॒द्वान्व॒युना॑नि सुक्रतो ।
घृत॑निर्णि॒ग्ब्रह्म॑णे गा॒तुमेर॑य॒ तव॑ दे॒वा अ॑जनय॒न्ननु॑ व्र॒तम् ॥

पदपाठः

जु॒षा॒णः । अ॒ग्ने॒ । प्रति॑ । ह॒र्य॒ । मे॒ । वचः॑ । विश्वा॑नि । वि॒द्वान् । व॒युना॑नि । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ।
घृत॑ऽनिर्निक् । ब्रह्म॑णे । गा॒तुम् । आ । ई॒र॒य॒ । तव॑ । दे॒वाः । अ॒ज॒न॒य॒न् । अनु॑ । व्र॒तम् ॥

सायणभाष्यम्

हे अग्ने जुषाणह् प्रीयमाणस्त्वं मे मम वचो वचनं स्तोत्रम् प्रत्छिहर्य। कामयस्व। हर्य गतिकान्त्योः। तथा हे सुक्रतो शोभनकर्मन् शोभनप्रज्ञ वा त्वं विश्वानि सर्वानि वयुनानि। ज्ञाननामैतत् इह ज्ञातव्ये वर्तते। ज्ञातव्यान्यर्थजातानि विद्वाञ्जानन्वर्तसे। हेतौ शतृप्रत्य्त्यः। यतो जानासि ततो हेतोर्मद्वचनं कामयस्वेत्यर्थः हे घृतनिर्णिग्घृतेनाज्येन निर्णिज्यमान पुष्यमाणशरीर। णिजिर् शौचपोषणयोः। यद्वा। निर्णिगिति रूपनाम। दीप्तरूपाग्ने ब्रह्मणे ब्राह्मनाय यजमानाय गातुं गातव्यं ज्ञातव्यम् वा यज्ञमेरय। आगमय। तव व्रतं त्वदीयं यज्ञकर्मानु पश्चाद्देवा इन्द्रादयः सर्वेऽजनयन्। यजमानाय फलानि जनयन्ति। अतस्त्वदीयं यज्ञं यजमानाय प्रापयेत्यर्थः। लक्षणेऽनोः कर्मप्रवचनीयत्वं व्रतमिति कर्मप्रवचनीययुक्त इति द्वितीया। जनेर्ण्यन्ताच्छान्दसो लङ्। जनीजॄष्क्नसुरञ्जोऽमन्ताश्चेति मित्त्वान्मितां ह्रस्व इति ह्रस्वत्वम्॥२॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः