मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२२, ऋक् ३

संहिता

स॒प्त धामा॑नि परि॒यन्नम॑र्त्यो॒ दाश॑द्दा॒शुषे॑ सु॒कृते॑ मामहस्व ।
सु॒वीरे॑ण र॒यिणा॑ग्ने स्वा॒भुवा॒ यस्त॒ आन॑ट् स॒मिधा॒ तं जु॑षस्व ॥

पदपाठः

स॒प्त । धामा॑नि । प॒रि॒ऽयन् । अम॑र्त्यः । दाश॑त् । दा॒शुषे॑ । सु॒ऽकृते॑ । म॒म॒ह॒स्व॒ ।
सु॒ऽवीरे॑ण । र॒यिणा॑ । अ॒ग्ने॒ । सु॒ऽआ॒भुवा॑ । यः । ते॒ । आन॑ट् । स॒म्ऽइधा॑ । तम् । जु॒ष॒स्व॒ ॥

सायणभाष्यम्

हे अग्ने सप्त सप्तसङ्ख्याकानि धामानि स्थानानि पृथिव्यादिलोकात्मकानि परियन् परितो गच्छन्नमर्त्यो मरनधर्मरहितस्त्वं यो यजमानः पुरोडाशादीनि हवींषि दाशत् प्रयच्छति तस्मै दाशुषे दत्तवते सुकृते सुष्थु यागं कृतवते मामहस्व। अपेक्षितं धनं ददस्व। महतिर्दानकर्मा। सुकर्मपापेत्यादिना सुपूवात्कृञो भुते काले क्विप्। यश्च यजमानः समिधा समिन्धनसाधनेनेध्मेन हे अग्ने ते त्वामानट् प्राप्नोति। नशतिर्गतिकर्मा। अस्माच्छान्दसो लङ्। बहुलं छन्दसिति शपो लुक्। छन्दस्यपि दृश्यत इत्याडागमः। अश्नोतेर्वा व्यत्ययेन श्नम्। तं यजमानं सुवीरेण। शोभनवीराः पुत्रा यस्य। वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वम्। तादृशेन स्वाभुवा सुष्थ्वा समन्ताद्भूष्णुना वर्धिष्णुना रयिणा धनेन दातव्येन सार्धं जुशस्व॥३॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः