मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२२, ऋक् ४

संहिता

य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रोहि॑तं ह॒विष्म॑न्त ईळते स॒प्त वा॒जिन॑म् ।
शृ॒ण्वन्त॑म॒ग्निं घृ॒तपृ॑ष्ठमु॒क्षणं॑ पृ॒णन्तं॑ दे॒वं पृ॑ण॒ते सु॒वीर्य॑म् ॥

पदपाठः

य॒ज्ञस्य॑ । के॒तुम् । प्र॒थ॒मम् । पु॒रःऽहि॑तम् । ह॒विष्म॑न्तः । ई॒ळ॒ते॒ । स॒प्त । वा॒जिन॑म् ।
शृ॒ण्वन्त॑म् । अ॒ग्निम् । घृ॒तऽपृ॑ष्ठम् । उ॒क्षण॑म् । पृ॒णन्त॑म् । दे॒वम् । पृ॒ण॒ते । सु॒ऽवीर्य॑म् ॥

सायणभाष्यम्

यज्ञस्य यागस्य केतुं प्रज्ञापकं प्रथमं सर्वेषु देवेषु मुख्यं प्रथमस्थानं वा पुरोहितं पुरतो हितकारिणम्। यद्वा। पुरस्तात्पूर्वस्यां दिश्या हवनीयरूपेण निहितम्। पूर्वाधरेत्यादिना पूर्वशब्दादसिः प्रत्ययः। तत्सन्नियोगेन प्रकृतेः पुरादेशश्च। तद्दितश्चासर्वविभक्तिरित्यव्ययसंज्ञायां पुरोऽव्ययमिति गतिसंज्ञा। धाञः कर्मणि निष्ठा। दधतेर्हिः। ततः समासे गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम्। वाजिनम् बलवन्तमुन्नवन्तं वा शृण्वन्तमस्मत्स्तुतीः श्रोत्रेण जानन्तं घृतपृष्ठं दीप्तपृष्ठं दीप्ताङ्गमुक्शनं यागद्वारेण वृष्टेः सम्भक्तारम् यद्वा सेचनसमर्थम् युवानं पृणते हविर्भिः प्रीणयित्रे यजमानाय। पृणप्रीणने तौदादिकः। शतुरनुम इति विभक्तेरुदात्तत्वम्। क्रियाग्रहणं कर्तव्यमिति कर्मणः सम्प्रदानत्वाच्चतुर्थी। हविर्भिः प्रीणयन्तं यजमानं धनैः प्रीणयन्तम्। यद्वा। पृणतिर्दानकर्मा। हवींषि ददते यजमानाय पृणन्तं धनानि प्रयच्छतम्। सुवीर्यं शोभनवीर्योपेतं देवं द्योतमानं दानादिगुणयुक्तं वा एवं गुणविशिष्टमग्निं हविष्मन्तो हविर्भिर्युक्ताः सप्त होतृप्रमुखा वषट्कर्तार ईळते। स्तुवन्ति। ईड स्तुतौ आदादिकः॥४॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः