मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२२, ऋक् ६

संहिता

इषं॑ दु॒हन्त्सु॒दुघां॑ वि॒श्वधा॑यसं यज्ञ॒प्रिये॒ यज॑मानाय सुक्रतो ।
अग्ने॑ घृ॒तस्नु॒स्त्रिरृ॒तानि॒ दीद्य॑द्व॒र्तिर्य॒ज्ञं प॑रि॒यन्त्सु॑क्रतूयसे ॥

पदपाठः

इष॑म् । दु॒हन् । सु॒ऽदुघा॑म् । वि॒श्वऽधा॑यसम् । य॒ज्ञ॒ऽप्रिये॑ । यज॑मानाय । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ।
अग्रे॑ । घृ॒तऽस्नुः॑ । त्रिः । ऋ॒तानि॑ । दीद्य॑त् । व॒र्तिः । य॒ज्ञम् । प॒रि॒ऽयन् । सु॒क्र॒तु॒ऽय॒से॒ ॥

सायणभाष्यम्

हे सुक्रतो सुकर्मन् शोभनप्रज्ञ वागे यज्ञप्रिये यज्ञैर्हविर्भिर्देवान्प्रीणयित्रे यजमानाय विश्वधायसं विश्वस्य सर्वस्य धारयित्रीं सुदुघां दोग्धुं सुशक्यां यज्ञरूपिणीं गामिषमिष्यमाणं यागफलरूपं पयो दुहन् क्षारयन् तथा घृतस्नुर्घृतेनाज्येन प्रस्नातः। स्नातेरौणादिकः कुप्रत्ययः। यद्वा। घृतो दीप्तः स्नुः सानुः समुच्छ्रितो ज्वालासमूहो यस्य स तथोक्तः। पदादिषु मांस्पृत्स्नूनामुपसङ्ख्यानम्। पा. ६-१-६३-१। इति सानुशब्दस्य स्नुभवः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। ईदृशस्त्वं त्रिस्त्रिवारमावृत्तान्यृतानि सत्यभूतानि पृथिव्यादीनि त्रीणि स्थानानि यद्वा गार्हपत्यादीनि स्थानानि दीद्यद्दीपयन्वर्तिः सर्वं यज्ञगृहं सर्वमनुष्ठीयमानं यागं च परियन् परितो गच्छन् तत्तद्यज्ञगृहं तम् तं यज्ञं च प्राप्नुवन् सुक्रतूयसे। शोभनं क्रतुं यज्ञमात्मन इच्छसि। यद्वा। शोभनः क्रतुर्यस्यासौ सुक्रतुर्यजमानः। स इवाचरसि। स यथा सम्यगनुष्थाने प्रवर्तते एवं त्वमपि स्वयमेव यागस्य सम्यग्निष्पत्त्यर्थं प्रवर्तस इत्यर्थः॥६॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः