मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२२, ऋक् ८

संहिता

नि त्वा॒ वसि॑ष्ठा अह्वन्त वा॒जिनं॑ गृ॒णन्तो॑ अग्ने वि॒दथे॑षु वे॒धसः॑ ।
रा॒यस्पोषं॒ यज॑मानेषु धारय यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

नि । त्वा॒ । वसि॑ष्ठाः । अ॒ह्व॒न्त॒ । वा॒जिन॑म् । गृ॒णन्तः॑ । अ॒ग्ने॒ । वि॒दथे॑षु । वे॒धसः॑ ।
रा॒यः । पोष॑म् । यज॑मानेषु । धा॒र॒य॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

हे अग्ने विदथेषु। विदन्त्यस्मिन्यष्टव्यान्देवानिति विदथो यज्ञः । तेषु वेधसः कर्मणां विधातारो गृणन्तः स्तुवन्तो वसिष्ठा वसिष्ठपुत्रा ऋषयो वाजनमन्नवन्तं बलवन्तं वा त्वां न्यह्वन्त। नितरामाह्वयन्। अस्ताविषुर्वा। ह्वेञो लुङि निसमुपविभ्यो ह्व इत्यात्मनेपदम्। आत्मनेपदेष्वन्यतरस्याम्। पा. ३-१-५४। इति च्लेरङादेशः। वसिष्ठशब्दाद्विहितस्यापत्यार्थप्रत्ययस्यात्रिभृगुकुत्सेत्यादिना बहुषु लुक्। स त्वं यजमानेष्वस्मासु रायो धनस्य पोषं पुष्टं धारय। अवस्थापय। ऊडिदमित्यादिना रैशब्दात्षष्ठ्या उदात्तत्वम्। षष्थ्याः पतिपुत्रेति विसर्जनीयस्य सत्वं गतमन्यत्। एकस्मिन्नप्यग्नौ पूजार्थं बहुवचनम्॥८॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः