मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२३, ऋक् २

संहिता

स॒मु॒द्रादू॒र्मिमुदि॑यर्ति वे॒नो न॑भो॒जाः पृ॒ष्ठं ह॑र्य॒तस्य॑ दर्शि ।
ऋ॒तस्य॒ साना॒वधि॑ वि॒ष्टपि॒ भ्राट् स॑मा॒नं योनि॑म॒भ्य॑नूषत॒ व्राः ॥

पदपाठः

स॒मु॒द्रात् । ऊ॒र्मिम् । उत् । इ॒य॒र्ति॒ । वे॒नः । न॒भः॒ऽजाः । पृ॒ष्ठम् । ह॒र्य॒तस्य॑ । द॒र्शि॒ ।
ऋ॒तस्य॑ । सानौ॑ । अधि॑ । वि॒ष्टपि॑ । भ्राट् । स॒मा॒नम् । योनि॑म् । अ॒भि । अ॒नू॒ष॒त॒ । व्राः ॥

सायणभाष्यम्

तस्मिन्नेवाभीष्टवे समुद्रादूर्मिमित्येषा। सूत्र्यते हि। समुद्रादूर्मिमुदियर्ति वेनो द्रप्सः समुद्रमभि यज्जिगति। आ. ४-७। इति॥

समुद्द्रवन्त्यस्मादाप इति समुद्रमन्तरिक्षम् । तस्मादूर्मिं जलसमूहमयं वेन उदियर्ति। उद्गमयति। अधः पातयतीत्यर्थः। कीदृशः। नभोजाः। नभस्याकाशे.......। इमं वेनमभि शब्दायन्ते। नु स्तुतौ। कुटादिः। छान्दसो लङ्।।२॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः