मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२३, ऋक् ६

संहिता

नाके॑ सुप॒र्णमुप॒ यत्पत॑न्तं हृ॒दा वेन॑न्तो अ॒भ्यच॑क्षत त्वा ।
हिर॑ण्यपक्षं॒ वरु॑णस्य दू॒तं य॒मस्य॒ योनौ॑ शकु॒नं भु॑र॒ण्युम् ॥

पदपाठः

नाके॑ । सु॒ऽप॒र्णम् । उप॑ । यत् । पत॑न्तम् । हृ॒दा । वेन॑न्तः । अ॒भि । अच॑क्षत । त्वा॒ ।
हिर॑ण्यऽपक्ष॑म् । वरु॑णस्य । दू॒तम् । य॒मस्य॑ । योनौ॑ । श॒कु॒नम् । भु॒र॒ण्युम् ॥

सायणभाष्यम्

अभिष्टवे नाके सुपर्णमित्येषा। सूत्रितं च। नाके सुपर्णमुप यत्पतन्तमिति समाप्य प्रणवेनोपविशेत्। आ. ४-७। इति॥

हे वेन त्वा त्वां हृदा हृदयेन मनसा वेनन्तः कामयमानाः स्तोतारो नाकेऽन्तरिक्षे यद्यदाभ्यचक्षत अभिपश्यन्ति तदानीं त्वमुप आगच्छसीति शेषः। कथं भुतम्। सुपर्णं शोभनपतनं पतन्तमन्तरिक्षे गच्छन्तं हिरण्यपक्षं हिरण्मयाभ्यां पक्षाभ्यामुपेतं वरुणस्य जलाभिमानिनो देवस्य दूतं चारम् यमस्य नियामकस्य वैद्युताग्नेर्योनौ स्थानेऽन्तरिक्षे शकुनं पक्षिरूपेण वर्तमानं भुरण्यं भर्तारम्। यद्वा। वृष्टि प्रदानादिन्दा सर्वस्य जगतः पोषकम्। भुरन धारनपोषणयोः। कण्ड्वादिः। अस्मादौणादिक उप्रत्ययः॥६॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः