मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२३, ऋक् ७

संहिता

ऊ॒र्ध्वो ग॑न्ध॒र्वो अधि॒ नाके॑ अस्थात्प्र॒त्यङ्चि॒त्रा बिभ्र॑द॒स्यायु॑धानि ।
वसा॑नो॒ अत्कं॑ सुर॒भिं दृ॒शे कं स्व१॒॑र्ण नाम॑ जनत प्रि॒याणि॑ ॥

पदपाठः

ऊ॒र्ध्वः । ग॒न्ध॒र्वः । अधि॑ । नाके॑ । अ॒स्था॒त् । प्र॒त्यङ् । चि॒त्रा । बिभ्र॑त् । अ॒स्य॒ । आयु॑धानि ।
वसा॑नः । अत्क॑म् । सु॒ऽर॒भिम् । दृ॒शे । कम् । स्वः॑ । न । नाम॑ । ज॒न॒त॒ । प्रि॒याणि॑ ॥

सायणभाष्यम्

ऊर्ध्व उपरिदेशे वर्तमानो गन्धर्वो गवामुदकानां धर्ता। गवि गन् धृञो व इति गोशब्दोपपदाद्धृञ् धारन इत्यस्माद्वप्रत्य्त्य उपपदस्य गन्भावश्च। ईदृशो वेनः प्रत्यङ्ङस्मत्प्रत्यञ्चनोऽभिमुखः सन्नाकेऽध्यन्तरिक्षेऽस्थात्। तिष्थति। किं कुर्वन्। अस्यात्मनः स्वभुतानि चित्रा चित्राणि चारनीयान्याश्चर्यभुतानि वायुधानि बिभ्रद्धारयन्। बिभर्तेः शतरि भृञामिदित्यभ्यासस्येत्वम्। नाभ्यस्ताच्छतुरिति नुम्प्रतिषेधः। अभ्यस्तानामादिरित्याद्युदात्तत्वम्। तथा सुरभिं शोभनमत्कमात्मीयं व्याप्तं रूपं वसानः सर्वत्राच्छादयन्। किमर्थं दृशे दर्शनार्थम्। दृशे विख्ये चेति केप्रत्य्त्यान्तो निपात्यते। कमिति पूरणः। तत्र दृष्टान्तः। स्वर्ण। स्वः शोभनारन आदित्यः। स यथात्मीयं रूपं दर्शनाय सर्वत्राच्छादयति तद्वत्। तदनन्तरं नाम नामानि नमनशीलान्युदकानि प्रियाणि सर्वेषामनुकूलानि जनत। जनयति। वृष्टिमुत्पादयतीत्यर्थः॥७॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः