मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२४, ऋक् ५

संहिता

निर्मा॑या उ॒ त्ये असु॑रा अभूव॒न्त्वं च॑ मा वरुण का॒मया॑से ।
ऋ॒तेन॑ राज॒न्ननृ॑तं विवि॒ञ्चन्मम॑ रा॒ष्ट्रस्याधि॑पत्य॒मेहि॑ ॥

पदपाठः

निःऽमा॑याः । ऊं॒ इति॑ । त्ये । असु॑राः । अ॒भू॒व॒न् । त्वम् । च॒ । मा॒ । व॒रु॒ण॒ । का॒मया॑से ।
ऋ॒तेन॑ । रा॒ज॒न् । अनृ॑तम् । वि॒ऽवि॒ञ्चन् । मम॑ । रा॒ष्ट्रस्य॑ । अधि॑ऽपत्यम् । आ । इ॒हि॒ ॥

सायणभाष्यम्

त्ये तेऽसुरा मय्यग्नावागते सति निर्माया मायारहिता अभूवन्। आसुर्यः सर्वा माया मया दग्धा आसन्नित्यर्थः। हे वरुन त्वं च। अयं च शब्दश्चेदर्थे वर्तमानश्चणिति निपातान्तरम्। अनेन युक्तत्वात्कामयास इति तिङ्विभक्तेर्निपातैय्यद्यदिहन्तेति निघातप्रतिषेधः। पा. ८-१-३०। हे वरुण त्वं चेन्मा कामयासे मां कामयेथाः तर्हि हे राजन्नीश्वर ऋतेन सत्येनास्यदीयेन कर्मणानृतमसत्यभूतं मायामयमासुरं चरित्रं विविञ्चन् पृथक्कुर्वन्नपसारयन् मम राष्ट्रस्य मया यत्साधितं राज्यं तस्याधिपत्यमधिपतित्वमीश्वरत्वमेहि। प्राप्नुहि॥५॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः