मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२६, ऋक् १

संहिता

न तमंहो॒ न दु॑रि॒तं देवा॑सो अष्ट॒ मर्त्य॑म् ।
स॒जोष॑सो॒ यम॑र्य॒मा मि॒त्रो नय॑न्ति॒ वरु॑णो॒ अति॒ द्विषः॑ ॥

पदपाठः

न । तम् । अंहः॑ । न । दुः॒ऽइ॒तम् । देवा॑सः । अ॒ष्ट॒ । मर्त्य॑म् ।
स॒ऽजोष॑सः । यम् । अ॒र्य॒मा । मि॒त्रः । नय॑न्ति । वरु॑णः । अति॑ । द्विषः॑ ॥

सायणभाष्यम्

न तमित्यष्टर्चं चतुर्दशं सूक्तं शिलूषपुत्रस्य कुल्मलबर्हिषस्यार्षं वामदेवपुत्रस्यांहोमुङ्नाम्नो वा। वैश्वदेवम् । अष्टमी त्रिष्टुप् शिष्ता उपरिष्टाद्बृहत्यः। त्र्यष्टकद्वादशकवत्युपरिष्टाद्बृहती। अनु. ७-४। इति हि तल्लक्षणम् । तथा चानुक्रान्तम्। न तं शैलूषः कुल्मलबर्हिषो वामदेव्यो वांहोमुग्वैश्वदेवमुपरिष्टाद्बार्हतमन्त्या त्रिष्टुबिति। गतो विनियोगः॥

हे देवासो देवाः। आज्जसेरसुक्। तं मर्त्यं मनुष्यमंहः पापं दुरितं तत्फलरूपं दुर्गमनं च नाष्ट। न प्राप्नोति। अशेश्छान्दसे लुङि झलोझलीति सिचो लोपः। अडभावश्छान्दसः। अरीन्न्नियच्छतीत्यर्यमा प्रमीतेस्त्रायको देवो मित्रः पापानां निवारयिता देवो वरुणः। एते त्रयो देवाः सजोषसः सङ्गताः समानं प्रीयमाणा वा भवन्तो द्विषो द्वेष्टॄञ्शत्रूनतिक्रम्य यं स्तोतारं नयन्त्यभिमतं देशं प्रापयन्ति तं नाष्टेत्यन्वयः॥१॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३