मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२६, ऋक् २

संहिता

तद्धि व॒यं वृ॑णी॒महे॒ वरु॑ण॒ मित्रार्य॑मन् ।
येना॒ निरंह॑सो यू॒यं पा॒थ ने॒था च॒ मर्त्य॒मति॒ द्विषः॑ ॥

पदपाठः

तत् । हि । व॒यम् । वृ॒णी॒महे॑ । वरु॑ण । मित्र॑ । अर्य॑मन् ।
येन॑ । निः । अंह॑सः । यू॒यम् । पा॒थ । ने॒थ । च॒ । मर्त्य॑म् । अति॑ । द्विषः॑ ॥

सायणभाष्यम्

हिरवधारणे। तद्धि तदेव रक्षनं वयं वृणीमहे। प्रार्थयामहे। सति शिष्टोऽपि विकरणस्य स्वरो लसार्वधातुकस्वरं न बाधते। म. ६-१-१५८-११। इति वचनात्तिङ एव स्वरः शिष्यते। हिचेति निघातप्रतिषेधः। हे वरुण हे मित्र हे अर्यमन् येन रक्षनेन मर्त्यं स्तोतारमंहसः पापाद्यूयं निः पाथ निःशेषेण रक्षथ। पा रक्षने आदादिकः। यद्वृत्तान्नित्यमिति निघातप्रतिषेधः। येन च रक्षणेन मर्त्यं मनुष्यं स्तोतारं द्विषोऽतिनेथ अतीत्य नयथ अभीष्टं प्रापयथ तद्वृणीमह इत्यन्वयः। नयतेश्छान्दसः शपो लुक्॥२॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३