मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२६, ऋक् ४

संहिता

यू॒यं विश्वं॒ परि॑ पाथ॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
यु॒ष्माकं॒ शर्म॑णि प्रि॒ये स्याम॑ सुप्रणीत॒योऽति॒ द्विषः॑ ॥

पदपाठः

यू॒यम् । विश्व॑म् । परि॑ । पा॒थ॒ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।
यु॒ष्माक॑म् । शर्म॑णि । प्रि॒ये । स्याम॑ । सु॒ऽप्र॒नी॒त॒यः॒ । अति॑ । द्विषः॑ ॥

सायणभाष्यम्

हे देवा वरुणादयः यूयं विश्वं सर्वं जगत्परि पाथ। परितो रक्षथ। हे सुप्रणीतयः शोभनप्रणयना मित्रादयः युश्माकं युश्मदीये युश्माभिर्दत्ते प्रियेऽनुकूले वेद्ये शर्मणि सुखे वयं स्याम। भवेम। द्विषोद्वेष्टॄंश्चाति क्रामेम॥४॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३