मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२६, ऋक् ५

संहिता

आ॒दि॒त्यासो॒ अति॒ स्रिधो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
उ॒ग्रं म॒रुद्भी॑ रु॒द्रं हु॑वे॒मेन्द्र॑म॒ग्निं स्व॒स्तयेऽति॒ द्विषः॑ ॥

पदपाठः

आ॒दि॒त्यासः॑ । अति॑ । स्रिधः॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।
उ॒ग्रम् । म॒रुत्ऽभिः॑ । रु॒द्रम् । हु॒वे॒म॒ । इन्द्र॑म् । अ॒ग्निम् । स्व॒स्तये॑ । अति॑ । द्विषः॑ ॥

सायणभाष्यम्

आदित्यासोऽदितेः पुत्रावरुणादयो देवाः स्रिधो हिंसाकाञ्शत्रूनस्मानतिनयन्तु। मरुद्भिः पुत्रैः सहितमुग्रमुद्गूर्णतेजसं रुद्रमिन्द्रमग्निं च स्वस्तये क्षेमाय हुवेम। आह्वयेमहि। ह्वयतेराशीर्लुङि बहुलं छन्दसीति सम्प्रसारणम् । लिङ्याशिष्यङ्। आहूतास्तेऽस्मान्द्विषो द्वेष्ट नति नयन्तु॥५॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३