मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२६, ऋक् ६

संहिता

नेता॑र ऊ॒ षु ण॑स्ति॒रो वरु॑णो मि॒त्रो अ॑र्य॒मा ।
अति॒ विश्वा॑नि दुरि॒ता राजा॑नश्चर्षणी॒नामति॒ द्विषः॑ ॥

पदपाठः

नेता॑रः । ऊं॒ इति॑ । सु । नः॒ । ति॒रः । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।
अति॑ । विश्वा॑नि । दुः॒ऽइ॒ता । राजा॑नः । च॒र्ष॒णी॒नाम् । अति॑ । द्विषः॑ ॥

सायणभाष्यम्

नेतारो नयनकुशलाः। नयतेः साधुकारिणि तृन्। वरुणादयो देवानोऽस्माकं पापानि सु सुष्ठु तिरस्तिरोधानमदर्शनं नयन्तु। उ इति पूरणः। चर्षणीनां मनुष्याणां राजानः स्वामिनो वरुणादयो देवा विश्वानि सर्वाणि दुरितानि दुरितानि दुर्गमनानि पापफलरूपाण्यस्मानति नयन्तु। द्विषो द्वेष्टॄञ्शत्रूंश्चाति नयन्तु। नामन्यतरस्यामिति चर्षणिशब्दात्परस्य नाम उदात्तत्वम्॥६॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३