मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२६, ऋक् ७

संहिता

शु॒नम॒स्मभ्य॑मू॒तये॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
शर्म॑ यच्छन्तु स॒प्रथ॑ आदि॒त्यासो॒ यदीम॑हे॒ अति॒ द्विषः॑ ॥

पदपाठः

शु॒नम् । अ॒स्मभ्य॑म् । ऊ॒तये॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।
शर्म॑ । य॒च्छ॒न्तु॒ । स॒ऽप्रथः॑ । आ॒दि॒त्यासः॑ । यत् । ईम॑हे । अति॑ । द्विषः॑ ॥

सायणभाष्यम्

वरुणादयो देवा ऊतये रक्षायै शुनं सुखमस्मभ्यं स्तोतृभ्यः प्रयच्छन्तु। तथादित्यासोऽदितेः पुत्रास्ते सप्रथः सर्वतः पृठु विस्तीर्णं शर्म सुखं च यच्छन्तु। अस्मभ्यं ददतु। यच्छर्म वयमीमहे याचामहे। द्विषश्चाति नयन्तु॥७॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३