मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२६, ऋक् ८

संहिता

यथा॑ ह॒ त्यद्व॑सवो गौ॒र्यं॑ चित्प॒दि षि॒ताममु॑ञ्चता यजत्राः ।
ए॒वो ष्व१॒॑स्मन्मु॑ञ्चता॒ व्यंह॒ः प्र ता॑र्यग्ने प्रत॒रं न॒ आयु॑ः ॥

पदपाठः

यथा॑ । ह॒ । त्यत् । व॒स॒वः॒ । गौ॒र्य॑म् । चि॒त् । प॒दि । सि॒ताम् । अमु॑ञ्चत । य॒ज॒त्राः॒ ।
ए॒वो इति॑ । सु । अ॒स्मत् । मु॒ञ्च॒त॒ । वि । अंहः॑ । प्र । ता॒रि॒ । अ॒ग्ने॒ । प्र॒ऽत॒रम् । नः॒ । आयुः॑ ॥

सायणभाष्यम्

हे वसवो वासका हे यजत्रा यागार्हा मित्रादयो देवाः। अमिनक्षीत्यादिना। उ. ३-१०५। यजेरत्रन्प्रत्ययः। त्यत् ते प्रसिद्धा यूयम् । सुपां सुलुगिति विभक्तेर्लुक्। यथा ह यथा खलु पदि पादे सितां बद्धाम् । पद्दन्नित्यादिना पादशब्दस्य पदादेशः। ऊडिदंपदादीत्यादिना सप्तम्या उदात्तत्वम्। षिञ् बन्धन इत्यस्मान्निष्था। ईदृशीं गौर्यं गौरीं गौरवर्णां सोमक्रयणीं गाम्। षिद्गौरादिभ्यश्चेति ङीष्। अमि पूर्व इत्यत्र वा छान्दसीत्यनुवर्तनात्पूर्वरूपस्य पूर्वसवर्णदीर्घस्य चाभावे यण्। उदात्तस्वरितयोर्यण इति परस्यानुदात्तस्य स्वरितत्वम्। ईदृशीं गाममुञ्चत यथा खलु यूयं विश्वासोर्गन्धर्वान्मोचितवन्तः एवो एवमेवास्मदस्मत्तोंऽहः पापं सुष्ठु वि मुञ्चत। विश्लेषयत। हे अग्ने नोऽस्माकमायुर्जीवनं प्रतरं प्रतारि। प्रकर्षेण त्वया प्रवर्धताम्। प्रपूर्वस्तिरतिर्वर्धनार्थः। प्रशब्दात्तरप्यमु च च्छन्दसीत्यमुप्रत्ययः॥८॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३