मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२७, ऋक् २

संहिता

ओर्व॑प्रा॒ अम॑र्त्या नि॒वतो॑ दे॒व्यु१॒॑द्वतः॑ ।
ज्योति॑षा बाधते॒ तमः॑ ॥

पदपाठः

आ । उ॒रु । अ॒प्राः॒ । अम॑र्त्या । नि॒ऽवतः॑ । दे॒वी । उ॒त्ऽवतः॑ ।
ज्योति॑षा । बा॒ध॒ते॒ । तमः॑ ॥

सायणभाष्यम्

अमर्त्या मरन रहिता देवी देवनशीला रात्रिरुरु विस्तीर्णमन्तरिक्षमाप्राः। प्रथमतस्तमसापूरयति। प्रा पूरणे आदादिकः। लङि व्यत्ययेन मध्यमः। तथा निवतो नीचीनाल्लतागुल्मादीनुद्वत उत्थितान्वृक्षादींश्च स्वकीयेन तेजसावृणोति। तदनन्तरं तत्तमोऽन्धकारं ज्योतिषा ग्रहनक्षत्रादिरूपेण तेजसा बाधते। पीडयति॥२॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४