मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२७, ऋक् ३

संहिता

निरु॒ स्वसा॑रमस्कृतो॒षसं॑ दे॒व्या॑य॒ती ।
अपेदु॑ हासते॒ तमः॑ ॥

पदपाठः

निः । ऊं॒ इति॑ । स्वसा॑रम् । अ॒कृ॒त॒ । उ॒षस॑म् । दे॒वी । आ॒ऽय॒ती ।
अप॑ । इत् । ऊं॒ इति॑ । हा॒स॒ते॒ । तमः॑ ॥

सायणभाष्यम्

आयत्यागच्छन्ती देवी देवनशीला रात्रिः स्वसारं भगिनीमुषसं निरकृत। निष्करोति। प्रकाशेन संस्करोति। निवर्तयतीत्यर्थः। तस्यामुषसि जातायां नैशं तमोऽपेद्धासते। अपैव गच्छति। ओहाङ् गतौ। लेट्यडागमः। सिब्बहुलमिति सिप्॥३॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४