मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२७, ऋक् ५

संहिता

नि ग्रामा॑सो अविक्षत॒ नि प॒द्वन्तो॒ नि प॒क्षिणः॑ ।
नि श्ये॒नास॑श्चिद॒र्थिनः॑ ॥

पदपाठः

नि । ग्रामा॑सः । अ॒वि॒क्ष॒त॒ । नि । प॒त्ऽवन्तः॑ । नि । प॒क्षिणः॑ ।
नि । श्ये॒नासः॑ । चि॒त् । अ॒र्थिनः॑ ॥

सायणभाष्यम्

ग्रामासो ग्रामाः। अत्र गामशब्दो रात्रावागतायां निविशन्ते। शेरते। निपूर्वाद्विशतेश्छान्दसे लुङि पूर्ववदात्मनेपदम्। शल इगुपधादनिटः क्सः। पा. ३-१४-५। क्सस्याचि। पा. ७-३-७२। इत्याकारलोपः। तथा पद्वन्तः पादयुक्ता गवाश्वादयश्च निविशन्ते। तथा पक्षिणः पक्षोपेताश्च निविशन्ते। अर्थिनः। अर्तेरर्थो गमनम्। शीघ्रगमनयुक्ताः श्येनासश्चिच्छ्येना अपि तस्यां रात्र्यां निविशन्ते। एषा रात्रिः सर्वाणि भूतजातान्यहनि सञ्चारेण श्रान्तानि स्वयमागत्य सुखयतीत्यर्थः॥५॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४