या॒वया॑ वृ॒क्यं१॒॑ वृकं॑ य॒वय॑ स्ते॒नमू॑र्म्ये ।
अथा॑ नः सु॒तरा॑ भव ॥
य॒वय॑ । वृ॒क्य॑म् । वृक॑म् । य॒वय॑ । स्ते॒नम् । ऊ॒र्म्ये॒ ।
अथ॑ । नः॒ । सु॒ऽतरा॑ । भ॒व॒ ॥
हे ऊर्म्ये। रात्रिनामैतत्। रात्रे वृक्यं वृकस्य स्त्रियं वृकं चास्मान्ह्ंसन्तं यवय। अस्मत्तः पृथक्कुरु। अस्मान्बाधितुं यथा न प्राप्नोति तथा। स्तेनम् इदं च यवय। अस्मत्तो वियोजय। अथानन्तरं नोऽस्माकं सुतरा सुखेन शरणीया क्षेमकरी भव॥६॥