उप॑ मा॒ पेपि॑श॒त्तमः॑ कृ॒ष्णं व्य॑क्तमस्थित ।
उष॑ ऋ॒णेव॑ यातय ॥
उप॑ । मा॒ । पेपि॑शत् । तमः॑ । कृ॒ष्णम् । विऽअ॑क्तम् । अ॒स्थि॒त॒ ।
उषः॑ । ऋ॒णाऽइ॑व । या॒त॒य॒ ॥
पेपिशद्भृशं पिंशत् सर्ववस्तुष्वाश्लिष्तम् तमोऽन्धकारं कृष्णं कृष्णवर्णं व्यक्तं विशेषेण स्वभासा सर्वस्याञ्जकं स्पष्टरूपं वा ईद्रुशं नैशं तमो मामुपास्थित। उपागच्छत्। सङ्गतकरण आत्मनेपदम्। हे उष उषोदेवते त्वमृणेवर्णानीव तत्तमो यातय। अपगमय। स्तोतॄणामृणानि यथा धनप्रदानेनापकरोषि तथा तमोऽप्यपसारयेत्यर्थः॥७॥