मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२७, ऋक् ८

संहिता

उप॑ ते॒ गा इ॒वाक॑रं वृणी॒ष्व दु॑हितर्दिवः ।
रात्रि॒ स्तोमं॒ न जि॒ग्युषे॑ ॥

पदपाठः

उप॑ । ते॒ । गाःऽइ॑व । आ । अ॒क॒र॒म् । वृ॒णी॒ष्व । दु॒हि॒तः॒ । दि॒वः॒ ।
रात्रि॑ । स्तोम॑म् । न । जि॒ग्युषे॑ ॥

सायणभाष्यम्

हे रात्री रात्रिदेवते ते त्वां गा इव पयसो दोग्ध्रीर्धेनूरिवोपेत्याकरम्। स्तुतिभिरभिमुखीकरोमि। करोतेश्छान्दसे लुङि क्रुमृदृरुहिभ्य इति च्लेरङादेशः। दिवो दुहितर्द्योतमानस्य सूर्यस्य पुत्रि यद्वा दिवसस्य तनये। परमपि च्छन्दसि। पा. २-१-२-६। इति परस्य षष्ठ्यन्तस्य पूर्वामन्त्रिताङ्गवद्भावात्पदद्वयसमुदायस्याष्टमिकं सर्वानुदात्तत्वम्। त्वत्प्रसादाज्जिग्युषे शत्रूञ्जिग्युषो मम स्तोमं न स्तोत्रमिव हविरपि वृणीष्व। त्वं भजस्व। जयतेर्लिटः क्वसुः। सन्लिटोर्जेरित्यभ्यासादुत्तरस्य जकारस्य कुत्वम्। षष्थ्यर्थे चतुर्थी वक्तव्येति चतुर्थी। वसोः सम्प्रसारणमिति सम्प्रसारणम्॥८॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४