मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२८, ऋक् २

संहिता

मम॑ दे॒वा वि॑ह॒वे स॑न्तु॒ सर्व॒ इन्द्र॑वन्तो म॒रुतो॒ विष्णु॑र॒ग्निः ।
ममा॒न्तरि॑क्षमु॒रुलो॑कमस्तु॒ मह्यं॒ वातः॑ पवतां॒ कामे॑ अ॒स्मिन् ॥

पदपाठः

मम॑ । दे॒वाः । वि॒ऽह॒वे । स॒न्तु॒ । सर्वे॑ । इन्द्र॑ऽवन्तः । म॒रुतः॑ । विष्णुः॑ । अ॒ग्निः ।
मम॑ । अ॒न्तरि॑क्षम् । उ॒रुऽलो॑कम् । अ॒स्तु॒ । मह्य॑म् । वातः॑ । प॒व॒ता॒म् । कामे॑ । अ॒स्मिन् ॥

सायणभाष्यम्

सर्वे देवा विहवे सङ्रग्रामे यज्ञे वा मम सन्तु। ममैव साधका भवन्तु। के पुनस्ते। इन्द्रवन्त इन्द्रेण युक्ता मरुतो विष्णुरग्निश्च। तथान्तरिक्षं ममोरुलोकं विस्तीर्णप्रकाशकमस्तु। लोकृ दर्शने। भाए घञ्। लोक आलोकः प्रकाशः। उरुर्लोको यस्येति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। अपि चास्मिन्कामे कामयितव्ये फले निमित्तभूते सति वातो वायुः पवताम्। अनुगुणं प्रवातु। पूङ् पवने भौवादिकः। ऊडिदमित्यादिनेदमः सप्तम्या उदात्तत्वम्॥२॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५