मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२८, ऋक् ९

संहिता

ये नः॑ स॒पत्ना॒ अप॒ ते भ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑ बाधामहे॒ तान् ।
वस॑वो रु॒द्रा आ॑दि॒त्या उ॑परि॒स्पृशं॑ मो॒ग्रं चेत्ता॑रमधिरा॒जम॑क्रन् ॥

पदपाठः

ये । नः॒ । स॒ऽपत्नाः॑ । अप॑ । ते । भ॒व॒न्तु॒ । इ॒न्द्रा॒ग्निऽभ्या॑म् । अव॑ । बा॒धा॒म॒हे॒ । तान् ।
वस॑वः । रु॒द्राः । आ॒दि॒त्याः । उ॒प॒रि॒ऽस्पृश॑म् । मा॒ । उ॒ग्रम् । चेत्ता॑रम् । अ॒धि॒ऽरा॒जम् । अ॒क्र॒न् ॥

सायणभाष्यम्

नोस्माकं ये सपत्नाः शत्रवस्तेऽप भवन्तु। अपगता भवन्तु। स्वस्थानादपगताः प्रच्युता भवन्तु। तान्सपत्नानिन्द्राग्निभ्यां हविर्भिः स्तुत्या च प्रसन्नाभ्यामनुगृहीता वयमव बाधामहे। निक्रुष्टतरं विनाशयामः। अपि च वसवो रुद्रा आदित्याश्च मा मामुपरिस्पृशमुन्नतपदस्य संस्पष्टारं सर्वेभ्यः श्रेष्ठमक्रन्। कुर्वन्तु। तथोग्रमुद्गूर्णबलं चेत्तारं चेतितारम् । छान्दस इडभावः। सर्वस्य ज्ञातारमधिराजं सर्वषामधीश्वरं च मां कुर्वन्तु। करोतेश्छान्दसे लुङि मन्त्रे घसेत्यादिना च्लेर्लुक्॥९॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६