मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३१, ऋक् २

संहिता

कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑ चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ ।
इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नमो॑वृक्तिं॒ न ज॒ग्मुः ॥

पदपाठः

कु॒वित् । अ॒ङ्ग । यव॑ऽमन्तः । यव॑म् । चि॒त् । यथा॑ । दान्ति॑ । अ॒नु॒ऽपू॒र्वम् । वि॒ऽयूय॑ ।
इ॒हऽइ॑ह । ए॒षा॒म् । कृ॒णु॒हि॒ । भोज॑नानि । ये । ब॒र्हिषः॑ । नमः॑ऽवृक्तिम् । न । ज॒ग्मुः ॥

सायणभाष्यम्

अङ्ग हे इन्द्र यमवन्तो यवादिधान्ययुक्ताः कर्षका यवं चित्। उपलक्षणमेतत्। यवगोधूमादीननुपूर्वं यो यो धान्यविशेशः प्रथमम् पच्यते तेनानुपूर्व्येण वियूय पृथक्कृत्य यथा कुविद्बहुलं दान्ति लुनन्ति। दाप् लवने आदादिकः। विपूर्वाद्यौतेर्ल्यपि युप्लुवोर्दीर्घश्छन्दसि। पा. ६-४-५८। इति दीर्घः। एवमिहेहास्मिन्नस्मिन्देशे सर्वस्मिन्नेषां यजमानानां भोजनानि। धननामैतत्। भोगसाधनानि धनानि कृणुहि। कुरु। यस्मिन्यस्मिन्देशे यद्धनमपेक्शितं तदनुगुणं प्रयच्छेत्यर्थः। उतश्च प्रत्ययाच्छन्दसि वावचनम्। पा. ६-४-१-६-१। इति हेर्लुगभावः। एषामित्युक्तं के पुनरिम इत्यत आह। ये यजमाना बर्हिषो यज्ञस्य नमोव्रुक्तिं नमसो हविर्लक्षणस्यान्नस्य नमस्कारात्मकस्य स्तोत्रस्य वा वर्जनमकरणं न जग्मुः न प्राप्नुवन्ति किन्तु सर्वदा हविर्भिर्यजन्ति स्तुतिभिः स्तुवन्ति च। एषां कृणुहीत्यन्वयः॥२॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९