मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३१, ऋक् ३

संहिता

न॒हि स्थूर्यृ॑तु॒था या॒तमस्ति॒ नोत श्रवो॑ विविदे संग॒मेषु॑ ।
ग॒व्यन्त॒ इन्द्रं॑ स॒ख्याय॒ विप्रा॑ अश्वा॒यन्तो॒ वृष॑णं वा॒जय॑न्तः ॥

पदपाठः

न॒हि । स्थूरि॑ । ऋ॒तु॒ऽथा । या॒तम् । अस्ति॑ । न । उ॒त । श्रवः॑ । वि॒वि॒दे॒ । स॒म्ऽग॒मेषु॑ ।
ग॒व्यन्तः॑ । इन्द्र॑म् । स॒ख्याय॑ । विप्राः॑ । अ॒श्व॒ऽयन्तः॑ । वृष॑णम् । वा॒जय॑न्तः ॥

सायणभाष्यम्

एकेन धुर्येण युक्तमनः स्थूरीत्युच्यते। ऋतुथर्तौ यद्यस्मिन्काले प्राप्तव्यम् तद्योग्यकाले स्थूर्यनो यातं तं देशं प्राप्तं नह्यस्ति। न हि भवति। एकेन धुर्येण युक्तः शकटः शीघ्रं गन्तव्यं न प्राप्नोतीत्यर्थः। उतापि च सङ्गमेषु सम्प्रामेषु श्रवोऽन्नं यशो वा न विविदे। न लभते। इन्द्रस्तूक्तविलक्षणः। व्रुषणं वर्षितारं तमिन्द्रं गव्यन्तो गा इच्छन्तो विप्रा मेधाविनो वयं सख्याय सखिकर्मन आह्वयाम इति शेहः कथं भूताः। अश्वायन्तोऽश्वानप्यात्मन इच्छन्तः वाजयन्तोऽन्नकामा बलकामाश्च॥३॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९