मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३१, ऋक् ४

संहिता

यु॒वं सु॒राम॑मश्विना॒ नमु॑चावासु॒रे सचा॑ ।
वि॒पि॒पा॒ना शु॑भस्पती॒ इन्द्रं॒ कर्म॑स्वावतम् ॥

पदपाठः

यु॒वम् । सु॒राम॑म् । अ॒श्वि॒ना॒ । नमु॑चौ । आ॒सु॒रे । सचा॑ ।
वि॒ऽपि॒पा॒ना । शु॒भः॒ । प॒ती॒ इति॑ । इन्द्र॑म् । कर्म॑ऽसु । आ॒व॒त॒म् ॥

सायणभाष्यम्

सौत्रामण्यां सुराग्रहाणां पुरोनुवाक्या युवमित्यॆषा। सुत्रितं च। युवं सुराममश्विनेति ग्रहाणां पुरोनुवाक्या। आ. ३-९। इति॥

हे अश्विनाश्विनौ हे शुभस्पती उदकस्य शोभनालङ्कारस्य वा पती पालयितारौ सुरामं सुष्ठु रमणसाधनमिदं हविर्विपिपाना विशेषेण पीतवन्तौ युवं युवां सचा सन्तौ सङ्गतावासुरेऽसुरपुत्रे नमुचावेतत्संज्ञेऽसुरे हन्तव्ये सति कर्मसु योधनकर्मस्विन्द्राअवतम्। अरक्षतम्। विपिपाना। पा पान इत्यस्माल्लिटह् कानच्। बहुलं छन्दसीत्यभ्यासस्येत्वम्। शुभस्पती इति सुबामन्त्रित इति षष्थ्यन्तस्य पाराङ्गवद्भावात्षष्ठ्यामन्त्रितसमुदायस्याष्टमिकं सर्वानुदात्तत्वम्॥४॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९