मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३१, ऋक् ६

संहिता

इन्द्र॑ः सु॒त्रामा॒ स्ववाँ॒ अवो॑भिः सुमृळी॒को भ॑वतु वि॒श्ववे॑दाः ।
बाध॑तां॒ द्वेषो॒ अभ॑यं कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥

पदपाठः

इन्द्रः॑ । सु॒ऽत्रामा॑ । स्वऽवा॑न् । अवः॑ऽभिः । सु॒ऽमृ॒ळी॒कः । भ॒व॒तु॒ । वि॒श्वऽवे॑दाः ।
बाध॑ताम् । द्वेषः॑ । अभ॑यम् । कृ॒णो॒तु॒ । सु॒ऽवीर्य॑स्य । पत॑यः । स्या॒म॒ ॥

सायणभाष्यम्

सुत्रामा सुष्ठु त्राता स्ववान्धन्वान् स इन्द्रोऽवोभी रक्शनैः सुमृळीकः सुष्ठु सुखयिता भवतु। तथा च विश्ववेदाः सर्वधनह् सर्वविद्वान्वा स इन्द्रो द्वेषो द्वॆष्टॄन् शत्रून् बाधताम्। हिनस्तु। अभयं भयरहितं चास्माकं क्रुणोतु। करोतु। वयं च तत्प्रसादात्सुवीर्यस्य शोभनवीर्यस्य पतयः स्याम। भवेम॥६॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९