मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३१, ऋक् ७

संहिता

तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ।
स सु॒त्रामा॒ स्ववाँ॒ इन्द्रो॑ अ॒स्मे आ॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योतु ॥

पदपाठः

तस्य॑ । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिय॑स्य । अपि॑ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ।
सः । सु॒त्रामा॑ । स्वऽवा॑न् । इन्द्रः॑ । अ॒स्मे इति॑ । आ॒रात् । चि॒त् । द्वेषः॑ । स॒नु॒तः । यु॒यो॒तु॒ ॥

सायणभाष्यम्

यज्ञियस्य यज्ञार्हस्य सुमतौ शोभनायामनुग्रहात्मिकायं बुद्धौ वयं स्याम। तद्विषयभूता भवेम। तथा भद्रे कल्याणे स्ॐअनसे सुमसो भावेऽपि तदीये स्याम। भवेम। स इन्द्रोऽस्मास्वनुग्रहात्मिकां बुद्धिं स्ॐअनस्यं च करोत्वित्यर्थः। सुत्रामा सुष्ठु त्राता स्ववान्धनवान् स इन्द्रश्चास्मे अस्मत्त आराच्चित् दूरदेश एव द्वेषो द्वेष्टॄन् सनुतः। अन्तर्हितनामैतत्। अन्तर्हितान्युयोतु। पृथक्करोतु।।

त्रातारमिन्द्रमित्यस्मिन्वर्गे। ४-७-३२। व्याख्याते। अक्षरार्थस्तु। सुत्राताधनवान् सर्वस्य वेदितेन्द्रो रक्षणैः सुष्ठु सुखयिता भवतु शत्रूंश्च हिनस्तु भयराहित्यम् च करोत्वस्माकम् । अतो वयं शोभनवीर्योपेतस्य धनस्य स्वामिनो भवेमेति। सप्तम्यास्तु। तस्य यज्ञार्हस्येन्द्रस्यानुग्रहबुद्धौ भजनीये स्ॐअनस्ये च वयं विषयभूता भवेम। सुष्थु त्राता धनवान् स इन्द्रोऽस्मत्तो दूरदेशे द्वेष्टॄनन्तर्धानं योजयत्विति॥७॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९