मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३२, ऋक् १

संहिता

ई॒जा॒नमिद्द्यौर्गू॒र्ताव॑सुरीजा॒नं भूमि॑र॒भि प्र॑भू॒षणि॑ ।
ई॒जा॒नं दे॒वाव॒श्विना॑व॒भि सु॒म्नैर॑वर्धताम् ॥

पदपाठः

ई॒जा॒नम् । इत् । द्यौः । गू॒र्तऽव॑सुः । ई॒जा॒नम् । भूमिः॑ । अ॒भि । प्र॒ऽभू॒षणि॑ ।
ई॒जा॒नम् । दे॒वौ । अ॒श्विनौ॑ । अ॒भि । सु॒म्नैः । अ॒व॒र्ध॒ता॒म् ॥

सायणभाष्यम्

ईजानमिति सप्तर्चं चतुर्थं सूक्तं नृमेधपुत्रस्य शकपूतस्यार्षम् मित्रावरुनदेवताकम्। आद्या तु लिङ्गोक्तद्युभूम्यश्विदेवताका न्यङ्ग्कुसारिणी द्वितीयद्वादहकत्र्यष्टकवती। द्वितीयाषष्ठ्यौ प्रस्तारपङ्क्ती द्विद्वादशकद्व्यष्टकवती। सप्तमी महासतो बृहती त्र्यष्टकद्विद्वादशकवती। शिष्टास्तिस्रो विराड्रूपा एकादशिनस्त्रयोऽष्टकश्चेति लक्षनलक्षिताः। तथा चानुक्रान्तम्। ईजानं शकपूतो नार्मेधो मैत्रावरुनं न्यङ्कुसारिण्याद्या लिङ्गोक्तदेवतान्त्या महासतोब्रुहत्युपाद्योपान्त्ये प्रस्तारपङ्क्ती शेशा विराड्रूपा इति। गतो विनियोगः॥

गूर्त वसुः। गूर्तमुद्यतं स्तोतृभ्यो दानाय हस्ते धृतं वसु धनं यस्याः सा तथोक्ता। गुरी उद्यमने। निष्ठा। श्वीदितो निष्थायामितीट्ट्प्रतिषेधः। नसत्तनिषत्तेत्यादिना निपातनान्निष्थानत्वाभावः। अन्येषामपीति सांहितिको दीर्घः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। ईदृशी द्यौर्द्युलोकाभिमानिनी देवते जानमिद्यज्हैरिष्टवन्तमेव पुरुषमभिवर्धयति। यजेर्लिटः कानच्। वचिस्वेपीति सम्प्रसारने द्विर्वचनम्। तथा भूमिश्च प्रभूषणि प्रभवने यद्वा प्रकृष्टभूषणेऽलङ्कारे निमित्तभुते सतीजानमभिवर्धयति। अपि च देवौ दानादिबुणयुक्तावश्विनावीजानमिष्टवन्तं पुरुषं सुम्नैर्धनैरभ्यवर्धताम्। अभिवर्धयतः। वृधेरन्तर्घावितण्यर्थाच्छान्दसो लङ्॥१॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०