मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३३, ऋक् २

संहिता

त्वं सिन्धूँ॒रवा॑सृजोऽध॒राचो॒ अह॒न्नहि॑म् ।
अ॒श॒त्रुरि॑न्द्र जज्ञिषे॒ विश्वं॑ पुष्यसि॒ वार्यं॒ तं त्वा॒ परि॑ ष्वजामहे॒ नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥

पदपाठः

त्वम् । सिन्धू॑न् । अव॑ । अ॒सृ॒जः॒ । अ॒ध॒राचः॑ । अह॑न् । अहि॑म् ।
अ॒श॒त्रुः । इ॒न्द्र॒ । ज॒ज्ञि॒षे॒ । विश्व॑म् । पु॒ष्य॒सि॒ । वार्य॑म् । तम् । त्वा॒ । परि॑ । स्व॒जा॒म॒हे॒ । नभ॑न्ताम् । अ॒न्य॒केषा॑म् । ज्या॒काः । अधि॑ । धन्व॑ऽसु ॥

सायणभाष्यम्

हे इन्द्र सिन्धून् स्यन्दनशीलञ्जलपूरानधराचोऽधरमधोमुखमञ्चतो गन्तॄनवासृजः। मेघान्निरगमयः। यतस्त्वमहिमन्तरिक्षे गतं मेघमहन् हतवानसि। यद्वा। अहिमागत्य हन्तारं सर्वस्य जगत आवरकं वृत्रमसुरमहन् हतवानसि। अतो हे इन्द्र त्वमशत्रुः शत्रुरहितो जज्ञिषे। जायसे। न सन्ति शत्रवोऽस्येति बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदान्तोदात्तत्वम्। जनेर्लिट गमहनेत्यादिनोपधालोपः। द्विर्वचनेऽचीति स्थानिवद्भावाद्द्विर्वचनम्। तथा विश्वं सर्वं वार्यं वरणीयं सम्भजनीयं धनं पुष्यसि। वर्धयसि। वृङ् सम्भक्तौ। ऋहलोर्ण्यत्। ईडवन्दवृशंसदुहां ण्यत इत्याद्युदात्त त्वम्। तादृशं त्वां परिष्वजामहे। हविर्घिः स्तुतिभिश्चालिङ्गनम्। कुर्मः। वशीकुर्म इत्यर्थः। ष्वन्ज परिश्वङ्गे। दंशसंजष्वंजां शपि। पा. ६-४-२५। इत्यनुनासिकलोपः॥२॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१