मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३३, ऋक् ५

संहिता

यो न॑ इन्द्राभि॒दास॑ति॒ सना॑भि॒र्यश्च॒ निष्ट्य॑ः ।
अव॒ तस्य॒ बलं॑ तिर म॒हीव॒ द्यौरध॒ त्मना॒ नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥

पदपाठः

यः । नः॒ । इ॒न्द्र॒ । अ॒भि॒ऽदास॑ति । सऽना॑भिः । यः । च॒ । निष्ट्यः॑ ।
अव॑ । तस्य॑ । बल॑म् । ति॒र॒ । म॒हीऽइ॑व । द्यौः । अध॑ । त्मना॑ । नभ॑न्ताम् । अ॒न्य॒केषा॑म् । ज्या॒काः । अधि॑ । धन्व॑ऽसु ॥

सायणभाष्यम्

हे इन्द्र यः सनाभिः समानजन्मा शत्रुर्नोऽस्मानभिदासति उपक्षयति यश्च निष्ट्यो निकृष्टजन्मास्मानुपक्शयति। जातार्थे निकृष्तवाचिनो निःशब्दादव्ययात्यप्। पा. ४-२-१०४। ह्रस्वात्तादौ तद्धिते। पा. ८-३-१०१। इति षत्वम्। आधानन्तरमेव महीव द्यौर्महती द्यौरिव विस्तृतम् तस्य शत्रोर्बलं त्मनात्मना। मन्त्रेष्वाज्यादेरात्मन इत्याकारलोपः। स्वयमेवाव तिर। जहि। अवतिरतिर्वधकर्मा। गतमन्यत्॥५॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१