मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३३, ऋक् ६

संहिता

व॒यमि॑न्द्र त्वा॒यवः॑ सखि॒त्वमा र॑भामहे ।
ऋ॒तस्य॑ नः प॒था न॒याति॒ विश्वा॑नि दुरि॒ता नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥

पदपाठः

व॒यम् । इ॒न्द्र॒ । त्वा॒ऽयवः॑ । स॒खि॒ऽत्वम् । आ । र॒भा॒म॒हे॒ ।
ऋ॒तस्य॑ । नः॒ । प॒था । न॒य॒ । अति॑ । विश्वा॑नि । दुः॒ऽइ॒ता । नभ॑न्ताम् । अ॒न्य॒केषा॑म् । ज्या॒काः । अधि॑ । धन्व॑ऽसु ॥

सायणभाष्यम्

हे इन्द्र त्वायवस्त्वामात्मन इच्छन्तो वयं सखित्वं सखिकर्म यज्ञात्मकमा रभामहे। उपक्रमामहे। ऋतस्य सत्यस्य यज्ञस्य पथा मार्गेन। भस्य टेर्लोपः उदात्तनिव्रुत्तिस्वरेण तृतीयाया उदात्तत्वम्। विश्वानि सर्वाणि दुरिता दुरितानि दुर्गमनानि पापानि तत्फलानि च नोऽस्मानति नय। अतिपारय। गतमन्यत्॥६॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१