मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३४, ऋक् १

संहिता

उ॒भे यदि॑न्द्र॒ रोद॑सी आप॒प्राथो॒षा इ॑व ।
म॒हान्तं॑ त्वा म॒हीनां॑ स॒म्राजं॑ चर्षणी॒नां दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥

पदपाठः

उ॒भे इति॑ । यत् । इ॒न्द्र॒ । रोद॑सी॒ इति॑ । आ॒ऽप॒प्राथ॑ । उ॒षाःऽइ॑व ।
म॒हान्त॑म् । त्वा॒ । म॒हीना॑म् । स॒म्ऽराज॑म् । च॒र्ष॒णी॒नाम् । दे॒वी । जनि॑त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि॑त्री । अ॒जी॒ज॒न॒त् ॥

सायणभाष्यम्

उभे यदिति सप्तर्चं षष्थम् सुक्तम्। युवनाश्वपुत्रस्य मान्धातुरार्षम्। पूर्वेणेत्यर्धर्चसहितायाः सप्तम्यास्तु गोधा नाम ब्रह्मवादिन्यृषिः। सप्तमी पङ्क्तिः। शिष्टाः षळष्टका महापङ्क्तयः। इन्द्रो देवता। तथा चानुक्रान्तम्। उभे यन्मान्धाता यौवनाश्वो महापाङ्क्तं पङ्क्तिरन्त्या तामध्यर्धां गोधापश्यदिति। गतः सूक्तविनियोगः। चातुर्विंशिकेऽहनि माध्यन्दिनेऽच्छावाकस्याद्यस्तृचो वैकल्पिकः स्तोत्रियः। सूत्रितं च। उभे यदिन्द्र रोदसी अव यत्त्वम् शतक्रतो। आ. ७-४। इति॥

हे इन्द्र उभे रोदसी द्यावापृथिव्यौ यद्यस्त्वमापप्राथ तेजसाप्रथयसि आपूरयसि। प्रा पूरने आदादिकः। छान्दसो लिट्। उषा इव यथोषाः स्वभासा सर्वं जगदापूरयति तद्वत्। तं महीनां महतां देवानामपि महान्तमधिकं चर्षणीनां मनुष्याणामपि सम्राजमीश्वरमिन्द्रं त्वा त्वां देवी देवनशीला जनित्र्यदितिरजीजनत्। अजनयत्। जनेर्ण्यन्ताल्लुङि रूपमेतत्। यस्मादेषा जनित्रीदृशं पुत्रमजीजनत् अतः कारणात्सा भद्रा कल्याणी प्रशस्ता जाता। जनेर्ण्यन्तात्साधुकारिणि तृन्। जनिता मन्त्र इतीडादौ णिलोपो निपात्यते। ऋन्नेभ्य इति ङीप्॥१॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२