मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३४, ऋक् ४

संहिता

अव॒ यत्त्वं श॑तक्रत॒विन्द्र॒ विश्वा॑नि धूनु॒षे ।
र॒यिं न सु॑न्व॒ते सचा॑ सह॒स्रिणी॑भिरू॒तिभि॑र्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥

पदपाठः

अव॑ । यत् । त्वम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । इन्द्र॑ । विश्वा॑नि । धू॒नु॒षे ।
र॒यिम् । न । सु॒न्व॒ते । सचा॑ । स॒ह॒स्रिणी॑भिः । ऊ॒तिऽभिः॑ । दे॒वी । जनि॑त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि॑त्री । अ॒जी॒ज॒न॒त् ॥

सायणभाष्यम्

चातुर्विंशिकेऽहनि माध्यन्दिनेऽच्छावाकस्याव यत्त्वमिति तृचो वैकल्पिकोऽनुरूपः। सूत्रं तु सूक्तादावुदाहृतम्।

हे शतक्रतो बहुकर्मन् बहुप्रज्ञ वेन्द्र सुन्वते सोमाभिषवं कुर्वते। सुनोतेर्लटह् शतृ। हुश्नुवोः सार्वधातुक इति यण्। शतुरनुम इति विभक्तेरुदात्तत्वम्। ईदॆउशाय यजमानाय यद्यदा त्वं विश्वानि व्याप्तान्यन्नानि वावधूनुषे अभिगमयसि। ददासीत्यर्थः। तदा रयिं न रयिं च पुत्ररूपं धनं च सहस्रिणीभिः सहस्रसंख्यायुक्ताभिरूतिभी रक्शाभिः सचा सह प्रदेहि। गतमन्यत्॥४॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२