मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३४, ऋक् ६

संहिता

दी॒र्घं ह्य॑ङ्कु॒शं य॑था॒ शक्तिं॒ बिभ॑र्षि मन्तुमः ।
पूर्वे॑ण मघवन्प॒दाजो व॒यां यथा॑ यमो दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥

पदपाठः

दी॒र्घम् । हि । अ॒ङ्कु॒शम् । य॒था॒ । शक्ति॑म् । बिभ॑र्षि । म॒न्तु॒ऽमः॒ ।
पूर्वे॑ण । म॒घ॒ऽव॒न् । प॒दा । अ॒जः । व॒याम् । यथा॑ । य॒मः॒ । दे॒वी । जनि॑त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि॑त्री । अ॒जी॒ज॒न॒त् ॥

सायणभाष्यम्

दीर्घमायतमङ्ग्कुशं सृनिं यथा बिभर्षि एवमायतां शक्तिं हे मन्तुमः। मन्तुर्ज्ञानम्। तद्वन्। मतुवसो रुरिति सम्बुद्धौ नकारस्य रुत्वम्। ईदृशेन्द्र बिभर्षि। धारयसि। डुभृञ् धारणपोषणयोः जौहोत्यादिकः। श्लौ भृञामिदित्यभ्यासस्येत्वम्। हे मघवन्धनवन्निन्द्र यथा पूर्वेण देहस्य पुर्वभागे वर्तमानेन पदा पादेनाजश्छागो वयां शाखामाकर्षति तथा पूर्वोक्तया शक्त्याकृष्ययमः। शत्रून्नियच्छसि। यमेर्लेट्यडागमः। बहुलं छन्दसीति शपो लुक्। गतमन्यत्॥६॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२