मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३७, ऋक् १

संहिता

उ॒त दे॑वा॒ अव॑हितं॒ देवा॒ उन्न॑यथा॒ पुनः॑ ।
उ॒ताग॑श्च॒क्रुषं॑ देवा॒ देवा॑ जी॒वय॑था॒ पुनः॑ ॥

पदपाठः

उ॒त । दे॒वाः॒ । अव॑ऽहितम् । देवाः॑ । उत् । न॒य॒थ॒ । पुन॒रिति॑ ।
उ॒त । आगः॑ । च॒क्रुष॑म् ।दे॒वाः॒ । देवाः॑ । जी॒वय॑थ । पुन॒रिति॑ ॥

सायणभाष्यम्

उत देवा इति सप्तर्चम् नवमं सुक्तमानुष्टुभं वैश्वदेवं भरद्वाजकश्यपगोतमात्रिविश्वामित्रजमदग्निवसिष्था इति क्रमेन प्रत्युचमृषयः। तथा चानुक्रान्तम्। उत देवाः सप्तर्षय एकार्चा वैश्वदेवमिति। गतो विनियोगः॥

उतापि च हे देवाह् अवहितमुन्नयथ। उतापि च हे देवाः आगोऽपराधम् चक्रुषं कृतवन्तं मां तस्मादागसो रक्षत। हे देवाः रक्षित्वा च पुनः पश्चाज्जीवयथ। चिरजीविनं कुरुत॥१॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५