मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३७, ऋक् २

संहिता

द्वावि॒मौ वातौ॑ वात॒ आ सिन्धो॒रा प॑रा॒वतः॑ ।
दक्षं॑ ते अ॒न्य आ वा॑तु॒ परा॒न्यो वा॑तु॒ यद्रपः॑ ॥

पदपाठः

द्वौ । इ॒मौ । वातौ॑ । वा॒तः॒ । आ । सिन्धोः॑ । आ । प॒रा॒ऽवतः॑ ।
दक्ष॑म् । ते॒ । अ॒न्यः । आ । वा॒तु॒ । परा॑ । अ॒न्यः । वा॒तु॒ । यत् । रपः॑ ॥

सायणभाष्यम्

इमौ दृश्यमानौ द्वौ वातौ पुरोवातः पश्चाद्वातश्चा सिन्धोरा समुद्रात्। मर्यादायामाकारः। यद्वा। परावतः समुद्रादपि यो दूरदेशस्तं देशमवधीकृत्य वातः। गच्छतः। वा गतिगन्धनयोः आदादिकः। तयोर्वातयोरन्य एको हे स्तोतः ते तव दक्षं बलमा वातु। आगमयतु। अन्यश्च त्वदीयं यद्रपः पापं तत्नरा वातु। प्राअगमयतु॥२॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५