मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३७, ऋक् ३

संहिता

आ वा॑त वाहि भेष॒जं वि वा॑त वाहि॒ यद्रपः॑ ।
त्वं हि वि॒श्वभे॑षजो दे॒वानां॑ दू॒त ईय॑से ॥

पदपाठः

आ । वा॒त॒ । वा॒हि॒ । भे॒ष॒जम् । वि । वा॒त॒ । वा॒हि॒ । यत् । रपः॑ ।
त्वम् । हि । वि॒श्वऽभे॑षजः । दे॒वाना॑म् । दू॒तः । ईय॑से ॥

सायणभाष्यम्

हे वात भेषजं सुखं व्याध्युपशमनमौषधं वा वाहि। आगमय। हे वाअतयद्रपोऽस्मदीयं पापं तद्वि वाहि। विगमय। अस्मत्तो विश्लेषय। त्वं हि खलु देवानां दूतो विश्वभेषजः। विश्वानि भेषजानि यस्मिन्। बहुव्रीहौ विश्वं संज्ञायामिति पूर्वपदान्तोदात्तत्वम्। ईदृशश्च सन्नीयसे। सततं गच्छसि। ईङ् गतौ दैवादिकः। श्यनो नित्त्वात् ञ्नित्यादिर्नित्यमित्याद्युदात्तत्वम्। हि चेति निघात प्रतिषेधः॥३॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५