मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३७, ऋक् ६

संहिता

आप॒ इद्वा उ॑ भेष॒जीरापो॑ अमीव॒चात॑नीः ।
आप॒ः सर्व॑स्य भेष॒जीस्तास्ते॑ कृण्वन्तु भेष॒जम् ॥

पदपाठः

आपः॑ । इत् । वा॒ । ऊं॒ इति॑ । भे॒ष॒जीः । आपः॑ । अ॒मी॒व॒ऽचात॑नीः ।
आपः॑ । सर्व॑स्य । भे॒ष॒जीः । ताः । ते॒ । कृ॒ण्व॒न्तु॒ । भे॒ष॒जम् ॥

सायणभाष्यम्

अप इद्वा अप एव खलु भेषजीर्भेषजभूताः। स्नानपानादिना सुखहेतवः। यद्वा। ओषधिरूपेण परिणता रोगोपशमनहेतवो भवन्ति। केवलमामकेत्यादिना। पा. ४-१-३०। भेषजशब्दाद्ङीप्। उदात्तनिव्रुत्तिस्वरेण ङीप उदात्तत्वम्। जसि वा छन्दसिति पूर्वसवर्णदीर्घत्वम्। य एवमतः कारनदापोऽमीवचातनीरमीवचातन्यो रोगाणां नाशयित्र्यो भवन्ति। चातयतिर्वधकर्मा। किंचापः सर्वस्य प्राणिजातस्य भेषजीर्भेषजभुता भवन्ति न कतिपयस्य। तास्तथाविधा आपस्ते तव भेषजं कृण्वन्तु। कुर्वन्तु॥६॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५