मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३७, ऋक् ७

संहिता

हस्ता॑भ्यां॒ दश॑शाखाभ्यां जि॒ह्वा वा॒चः पु॑रोग॒वी ।
अ॒ना॒म॒यि॒त्नुभ्यां॑ त्वा॒ ताभ्यां॒ त्वोप॑ स्पृशामसि ॥

पदपाठः

हस्ता॑भ्याम् । दश॑ऽशाखाभ्याम् । जि॒ह्वा । वा॒चः । पु॒रः॒ऽग॒वी ।
अ॒ना॒म॒यि॒त्नुऽभ्या॑म् । त्वा॒ । ताभ्या॑म् । त्वा॒ । उप॑ । स्पृ॒शा॒म॒सि॒ ॥

सायणभाष्यम्

दशशाखाभ्याम्। दशाङ्गुलयः शाखाभुत ययोः तादृशाभ्यां प्रजापतेर्हस्ताभ्याम् सृज्यमाना जिह्वा रसना वाचः शब्दस्य पुरोगवी पुरतो गन्त्री जाता। यत्र यत्र शब्दस्तत्र सर्वत्र तस्य शब्दस्योच्चारणाय पुरतो व्याप्रियत इत्यर्थः। अनामयित्नुभ्यां सम्यगारोग्यहेतुभ्याम् ताभ्यां हस्ताभ्यां हे स्तोतः त्वामुपस्पृशामि। उपस्पृशामः। इदन्तो मसिः। त्वेति पुनरुक्तिः पारपूरणार्था॥७॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५