मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३८, ऋक् १

संहिता

तव॒ त्य इ॑न्द्र स॒ख्येषु॒ वह्न॑य ऋ॒तं म॑न्वा॒ना व्य॑दर्दिरुर्व॒लम् ।
यत्रा॑ दश॒स्यन्नु॒षसो॑ रि॒णन्न॒पः कुत्सा॑य॒ मन्म॑न्न॒ह्य॑श्च दं॒सयः॑ ॥

पदपाठः

तव॑ । त्ये । इ॒न्द्र॒ । स॒ख्येषु॑ । वह्न॑यः । ऋ॒तम् । म॒न्वा॒नाः । वि । अ॒द॒र्दि॒रुः॒ । व॒लम् ।
यत्र॑ । द॒श॒स्यन् । उ॒षसः॑ । रि॒णन् । आ॒पः । कुत्सा॑य । मन्म॑न् । अ॒ह्यः॑ । च॒ । दं॒सयः॑ ॥

सायणभाष्यम्

तव त्य इति षड्रुचम् दशमं सूक्तमुरुनाम्नः पुत्रस्याङ्गाख्यस्यार्षं जागतमैन्द्रम्। तथा चानुक्रान्तम्। तव त्ये षलङ्ग औरवो जागतमिति। गतो विनियोगः॥

हे इन्द्र तव स्ख्येषु सखित्वेषु सत्सु त्ये ते प्रसिद्धा वह्नयो वोढारो हविषां स्तुतीनां वा अत एवत्रम् यज्ञं मन्वाना अवबुध्यमाना अङ्गिरसो वलं गवामपहर्तारमेतत्संज्ञकमसुरं व्यवर्दिरुः। अथर्थं व्यदारयन्। दॄ विदारणे। अस्माद्यङ् लुगान्ताल्लुङ्। सिजभ्यस्तेतिझेर्जुः। जुसि चेति गुणः। व्यत्ययेनेत्वम्। आपि च यत्र यस्मिन्काले मन्मन् मन्मनि स्तोत्रे सति कुत्साय महर्षय उषस उषह् कालान्व्रुत्रेणावृतत्वात्पूर्वमसत्प्रायांस्तदपनोदनेन दशस्यन्प्रयच्छन् तथापो वृत्रेणावृतान्युदकानि च रिणंस्तस्मान्निर्गमयन्वर्तसे। री गतिरेषणयोः। क्रैयादिकः। प्वादीनां ह्रस्वत्वम्। तदानीमह्योऽहेर्व्रुत्रस्य च दंसयः कर्माणि वितथान्यासन्नित्यर्थः॥१॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६