मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३९, ऋक् ३

संहिता

रा॒यो बु॒ध्नः सं॒गम॑नो॒ वसू॑नां॒ विश्वा॑ रू॒पाभि च॑ष्टे॒ शची॑भिः ।
दे॒व इ॑व सवि॒ता स॒त्यध॒र्मेन्द्रो॒ न त॑स्थौ सम॒रे धना॑नाम् ॥

पदपाठः

रा॒यः । बु॒ध्नः । स॒म्ऽगम॑नः । वसू॑नाम् । विश्वा॑ । रू॒पा । अ॒भि । च॒ष्टे॒ । शची॑भिः ।
दे॒वःऽइ॑व । स॒वि॒ता । स॒त्यऽध॑र्मा । इन्द्रः॑ । न । त॒स्थौ॒ । स॒म्ऽअ॒रे । धना॑नाम् ॥

सायणभाष्यम्

रायो धनस्य बुध्नो बन्धको मूलभूतो वा। ऊडिदमित्यादिना रैशब्दाद्विभक्तेरुदात्तत्वम्। तथा वसूनां धनानां सङ्गमनः सङ्गमयिता प्रापयिता ईदृशः सविता शचीभिर्दीप्तिभिर्विश्वा रूपा सर्वाणि रूपाणि निरूपणीयानि पदार्थजातान्यभिचष्टे। अभिपश्यति। प्रकाशयति। अपि च देव इवायं सविता सावको देवः सत्यधर्मा सत्यमवितथं धर्म धारणम् धारणहेतुभूतं कर्म वा यस्य तादृशो भवति तथेन्द्रो नेन्द्र इव धनानां समरे सङ्ग्रामे सम्यक्प्रपणे तस्थौ। अयं सवितोद्युक्तः संस्तिष्ठति॥३॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७