मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३९, ऋक् ६

संहिता

सस्नि॑मविन्द॒च्चर॑णे न॒दीना॒मपा॑वृणो॒द्दुरो॒ अश्म॑व्रजानाम् ।
प्रासां॑ गन्ध॒र्वो अ॒मृता॑नि वोच॒दिन्द्रो॒ दक्षं॒ परि॑ जानाद॒हीना॑म् ॥

पदपाठः

सस्नि॑म् । अ॒वि॒न्द॒त् । चर॑णे । न॒दीना॑म् । अप॑ । अ॒वृ॒णो॒त् । दुरः॑ । अश्म॑ऽव्रजानाम् ।
प्र । आ॒सा॒म् । ग॒न्ध॒र्वः । अ॒मृता॑नि । वो॒च॒त् । इन्द्रः॑ । दक्ष॑म् । परि॑ । जा॒ना॒त् । अ॒हीना॑म् ॥

सायणभाष्यम्

सस्निमद्भिः संस्नातं प्रकर्षेण सर्वस्य जगतः स्नापयितारं मेघम्। स्नाशौचे। आदृगमहन इति किन्प्रत्ययः। लिड्वद्भावाद्द्विर्वचनम्। नदीनां शब्दकारिणीनामपां चरणे सञ्चरणस्थानेऽन्तरिक्षेऽविन्दत्। इन्द्रोऽलभत। लब्ध्वा चाश्मव्रजानाम्। अश्मा व्याप्तो मेघः तत्र व्रजन्तीनाम्। यद्वा। मेघो व्रजो गोष्ठं निवासस्थानं यासां तादृशीनां अपाम्। दुरो द्वारानि मेघान्निर्गमनप्रदेशानपावृणोत्। अपावृतवान्। यद्वा। अश्मसु शिलासु व्रजन्तीनां गच्छन्तीनाम् व्याप्तगमनानां वा नदीनां गङ्गायमुनादीनां चरने सञ्चरणे प्रवहणननिमित्तभुते सति तदर्थमिन्द्रः सस्निं मेघमविन्दत्। अलभत। लब्ध्वा चान्तर्गतानामपां निर्गमनसाधनानि मेघस्य दुरो द्वारान्यपावृणोत्। अपावतवान्। तथासां नदीनाममृतान्यमरणसाधकान्युदकानि गन्धर्वो गोर्वज्रस्य धर्ता विश्वावसरूपेण वर्तमान इन्द्रः प्र वोचत्। प्रब्रवीति। प्रवोढुमनुजानाति। तथा दक्षम्। दक्षत्युदकं प्रयच्छतीति दक्षो वर्षनसमर्थो मेघः। तादृशं मेघमहीनां मेघानां मध्ये परिजानात्। परितः सर्वतो जानाति। ज्ञा अवबोधने। लेट्यडागमः। ज्ञाजनोर्जेति जादेशः॥६॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७