मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४१, ऋक् २

संहिता

प्र नो॑ यच्छत्वर्य॒मा प्र भग॒ः प्र बृह॒स्पति॑ः ।
प्र दे॒वाः प्रोत सू॒नृता॑ रा॒यो दे॒वी द॑दातु नः ॥

पदपाठः

प्र । नः॒ । य॒च्छ॒तु॒ । अ॒र्य॒मा । प्र । भगः॑ । प्र । बृह॒स्पतिः॑ ।
प्र । दे॒वाः । प्र । उ॒त । सू॒नृता॑ । रा॒यः । दे॒वी । द॒दा॒तु॒ । नः॒ ॥

सायणभाष्यम्

अर्यमारीणाम् नियन्तार्याणां निर्माता वैतत्संज्ञो देवो नोऽस्मभ्यं प्र यच्छतु धनम्। तथा भग एत्संज्ञको देवश्च प्रयच्छतु। बृहस्पतिश्च प्रयच्छतु। सर्वे देवाश्च प्रयच्छन्तु। उतापि च सूनृता प्रियसत्यवाग्रूपा देवी देवनशीला सरस्वती रायो धनानि नोऽस्मभ्यं प्र ददातु। ऊडिदमित्यादिना रायो विभक्तिरुदात्ता॥२॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९