मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४१, ऋक् ३

संहिता

सोमं॒ राजा॑न॒मव॑से॒ऽग्निं गी॒र्भिर्ह॑वामहे ।
आ॒दि॒त्यान्विष्णुं॒ सूर्यं॑ ब्र॒ह्माणं॑ च॒ बृह॒स्पति॑म् ॥

पदपाठः

सोम॑म् । राजा॑नम् । अव॑से । अ॒ग्निम् । गीः॒ऽभिः । ह॒वा॒म॒हे॒ ।
आ॒दि॒त्यान् । विष्णु॑म् । सूर्य॑म् । ब्र॒ह्माण॑म् । च॒ । बृह॒स्पति॑म् ॥

सायणभाष्यम्

राजानं राजमानमीश्वरं वा सोममग्निं च गीर्घिः स्तुतिभिरवसे रक्षणार्थम् हवामहे। आह्वयामहे। तथादित्यानदितेः पुत्रान् मित्रादीन् विष्णुं सूर्यं ब्रह्माणं प्रजापतिं ब्रुहस्पतिं च रक्षणार्थमाह्वयामहे॥३॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९