मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४१, ऋक् ४

संहिता

इ॒न्द्र॒वा॒यू बृह॒स्पतिं॑ सु॒हवे॒ह ह॑वामहे ।
यथा॑ न॒ः सर्व॒ इज्जन॒ः संग॑त्यां सु॒मना॒ अस॑त् ॥

पदपाठः

इ॒न्द्र॒वा॒यू इति॑ । बृह॒स्पति॑म् । सु॒ऽहवा॑ । इ॒ह । ह॒वा॒म॒हे॒ ।
यथा॑ । नः॒ । सर्वः॑ । इत् । जनः॑ । सम्ऽग॑त्याम् । सु॒ऽमनाः॑ । अस॑त् ॥

सायणभाष्यम्

इन्द्रश्च वायुश्चेन्द्रवायू। उभयत्र वायोः प्रतिषेधो वक्तव्यः। पा. ६-३-२६-१। इत्यानङः प्रतिषेधः। नोत्तरपदेऽनुदात्तादाविति देवताद्वन्द्वे चेति प्राप्तस्योभयपदप्रकृतिस्वरस्य निषेधः। समासस्येत्यन्तोदात्तत्वम्। बृहस्पतिं बृहतां देवानां पालकम्। तद्बृहतोः करपत्योः। पा. ६-१-५७। इति सुट् तलोपौ। वनस्पत्यादित्वादुभयपदप्रकृतिस्वरत्वम्। सुहवा सुहवौ सुह्वनाविन्द्रवायू बृहस्पतिं चेहास्मिन्कर्मणि हवामहे। आह्वयामहे। यथा नोऽस्माकं सर्व इत् सर्व एव जनः सङ्गत्यां सङ्गमने धनस्य प्राप्तौ सुमना असत् शोभनमनस्को भवेत् तथाह्वयामह इत्यर्थः। अस्तेर्लेट्यडागमः॥४॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९